Header Ads

  • Breaking News

    अथ कैवल्योपनिषत् ॥ Astro Classes, Silvassa.

    अथ कैवल्योपनिषत् ॥ Astro Classes, Silvassa.

    कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
    कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥

    ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच ।
    अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
    यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १॥

    तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ॥ २॥

    न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
    परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ ३॥

    वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
    ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४॥

    विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ।
    अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५॥

    हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
    अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ ६॥

    तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् । var तथादि
    उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
    ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७॥

    स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
    स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ८॥

    स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
    ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९॥

    सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
    सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १०॥

    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ११॥ var पाशं
    स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
    स्त्र्यन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२॥

    स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
    सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ १३॥

    पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
    पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
    आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ १४॥

    एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
    खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ १५॥

    यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
    सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६॥

    जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
    तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७॥

    त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
    तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८॥

    मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
    मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ १९॥

    ॥ प्रथमः खण्डः ॥ १॥

    अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
    पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २०॥

    अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
    अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥ २१
    वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
    न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २२॥

    न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।
    एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३
    समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥

    यः शतरूद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति
    स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति
    स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो
    भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

    अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं
    विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति ॥ २४॥

    द्वितीयः खण्डः ॥ २॥

    ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad