Header Ads

  • Breaking News

    श्रीउच्छिष्टमहागणपति ध्यानम् ।। Astro Classes, Silvassa.

    श्रीउच्छिष्टमहागणपति ध्यानम् ।। Astro Classes, Silvassa.

    मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले ।
    समासीनं पराशक्तिविग्रहं गणनायकम् ॥  १॥

    रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।
    रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥  २॥

    करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।
    अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥  ३॥

    पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।
    नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥  ४॥

    सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।
    पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥  ५॥

    ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।
    महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥  ६॥

    नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।
    पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥  ७॥

    अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् ।
    रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥  ८॥

    गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् ।
    अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥  ९॥

    महागोप्यमहाविद्या प्रकाशितकलेबरम् ।
    चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥

    अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् ।
    चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥

    चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् ।
    वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥

    मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् ।
    षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥

    अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् ।
    अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥

    हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् ।
    महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५॥

    सदोदितमहाप्रज्ञाकारं संसारतारकम् ।
    मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६॥

    नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् ।
    प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७॥

    महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् ।
    अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८॥

    नादबिन्दुकलातीतं कार्यकारणवर्जितम् ।
    षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९॥

    तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् ।
    ब्रह्मादिकीटपर्यन्तव्याप्तसम्वित्सुधारसम् ॥ २०॥

    इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् ।
    हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१॥

    पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् ।
    श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२॥

    ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् ।
    वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३॥

    आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् ।
    असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४॥

    एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् ।
    नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५॥

    No comments

    Post Top Ad

    Post Bottom Ad