ऋग्वेदः - मण्डल - २. सूक्त – ०६, ०७, ०८, ०९ एवं १०. Astro Classes, Silvassa.
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ०६.
इमां मे अग्ने समिधमिमामुपसदं वनेः।
इमा उ षु श्रुधी गिरः॥ २.००६.०१
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे।
एना सूक्तेन सुजात॥ २.००६.०२
तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः।
सपर्येम सपर्यवः॥ २.००६.०३
स बोधि सूरिर्मघवा वसुपते वसुदावन्।
युयोध्यस्मद्द्वेषांसि॥ २.००६.०४
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम्।
स नः सहस्रिणीरिषः॥ २.००६.०५
ईळानायावस्यवे यविष्ठ दूत नो गिरा।
यजिष्ठ होतरा गहि॥ २.००६.०६
अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे।
दूतो जन्येव मित्र्यः॥ २.००६.०७
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक्।
आ चास्मिन्सत्सि बर्हिषि॥ २.००६.०८
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ०७.
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर।
वसो पुरुस्पृहं रयिम्॥ २.००७.०१
मा नो अरातिरीशत देवस्य मर्त्यस्य च।
पर्षि तस्या उत द्विषः॥ २.००७.०२
विश्वा उत त्वया वयं धारा उदन्या इव।
अति गाहेमहि द्विषः॥ २.००७.०३
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे।
त्वं घृतेभिराहुतः॥ २.००७.०४
त्वं नो असि भारताग्ने वशाभिरुक्षभिः।
अष्टापदीभिराहुतः॥ २.००७.०५
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः।
सहसस्पुत्रो अद्भुतः॥ २.००७.०६
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ०८.
वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि।
यशस्तमस्य मीळ्हुषः॥ २.००८.०१
यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम्।
चारुप्रतीक आहुतः॥ २.००८.०२
य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते।
यस्य व्रतं न मीयते॥ २.००८.०३
आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा।
अञ्जानो अजरैरभि॥ २.००८.०४
अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः।
विश्वा अधि श्रियो दधे॥ २.००८.०५
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम्।
अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः॥ २.००८.०६
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – ०९.
नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः।
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः॥ २.००९.०१
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः॥ २.००९.०२
विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे।
यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे॥ २.००९.०३
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः।
त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता॥ २.००९.०४
उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म।
कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः॥ २.००९.०५
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि॥ २.००९.०६
ऋग्वेदः (वैदिक स्वर विरहित) - मण्डल - २. सूक्त – १०.
जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः।
श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी॥ २.०१०.०१
श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः।
श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः॥ २.०१०.०२
उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः।
शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः॥ २.०१०.०३
जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम्॥ २.०१०.०४
आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत।
मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः॥ २.०१०.०५
ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम।
अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि॥ २.०१०.०६
No comments