Header Ads

  • Breaking News

    अथ केनोपनिषत् ॥ Astro Classes, Silvassa.

    अथ केनोपनिषत् ॥ Astro Classes, Silvassa.

              ॥ अथ केनोपनिषत् ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं
    माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
    तदात्मनि निरते य
    उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
              ॐ शान्तिः शान्तिः शान्तिः ॥



    ॐ केनेषितं पतति प्रेषितं मनः
        केन प्राणः प्रथमः प्रैति युक्तः ।
    केनेषितां वाचमिमां वदन्ति
        चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥

    श्रोत्रस्य श्रोत्रं मनसो मनो यद्
        वाचो ह वाचं स उ प्राणस्य प्राणः ।
    चक्षुषश्चक्षुरतिमुच्य धीराः
        प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥

    न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
    न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

    अन्यदेव तद्विदितादथो अविदितादधि ।
    इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥

    यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥

    यन्मनसा न मनुते येनाहुर्मनो मतम् ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥

    यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥

    यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥

    यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥

              ॥ इति केनोपनिषदि प्रथमः खण्डः ॥



    यदि मन्यसे सुवेदेति दहरमेवापि
        नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
    यदस्य त्वं यदस्य देवेष्वथ नु
        मीमाँस्येमेव ते मन्ये विदितम् ॥ १॥

    नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
    यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥

    यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
    अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३॥

    प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
    आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥

    इह चेदवेदीदथ सत्यमस्ति
        न चेदिहावेदीन्महती विनष्टिः ।
    भूतेषु भूतेषु विचित्य धीराः
        प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥

           ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥



    ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
    विजये देवा अमहीयन्त ॥ १॥

    त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।
    तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत
    किमिदं यक्षमिति ॥ २॥

    तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि
    किमिदं यक्षमिति तथेति ॥ ३॥

    तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
    अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥

    तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वं
    दहेयं यदिदं पृथिव्यामिति ॥ ५॥

    तस्मै तृणं निदधावेतद्दहेति ।
    तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
    निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥

    अथ वायुमब्रुवन्वायवेतद्विजानीहि
    किमेतद्यक्षमिति तथेति ॥ ७॥

    तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
    अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥

    तस्मिँस्त्वयि किं वीर्यमित्यपीदँ
    सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥

    तस्मै तृणं निदधावेतदादत्स्वेति
    तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुं स तत एव
    निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥

    अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
    तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥

    स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
    हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥

              ॥ इति केनोपनिषदि तृतीयः खण्डः ॥



    सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
    ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥

    तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते
    ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥

    तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स
    ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥

    तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
    Extra `A'kAr is used in the sense of comparison
    इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥

    अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन
    चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥

    तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
    हैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥

    उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त
    उपनिषदमब्रूमेति ॥ ७॥

    तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि
    सत्यमायतनम् ॥ ८॥

    यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे
    लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥

              ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥



    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं
    माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
    तदात्मनि निरते य
    उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
              ॐ शान्तिः शान्तिः शान्तिः ॥

              ॥ इति केनोपनिषत् ॥

    No comments

    Post Top Ad

    Post Bottom Ad