Header Ads

  • Breaking News

    अथ श्री अम्बास्तोत्रं - स्वामी विवेकानन्दरचितम् ।। Astro Classes, Silvassa.

    अथ श्री अम्बास्तोत्रं - स्वामी विवेकानन्दरचितम् ।।
    Astro Classes, Silvassa.


    का त्वं शुभकरे सुखदुःखहस्ते
          आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
    शान्तिं विधातुमिह किं बहुधा विभग्नाम्
          मतः प्रयत्नपरमासि सदैव विश्वे ॥

    सम्पादयत्यविरतं त्वविरामवृता
          या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
    सा मे भवत्वनिदिनं वरदा भवानी
          जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥

    को वा धर्मः किमकृतं क्वः कपाललेखः
          किंवादृष्टं फलमिहास्ति हि यां विना भोः ।
    इच्छापाशैर्नियमिता नियमाः स्वतन्त्रैः
          यस्या नेत्री भवति सा शरणं ममाद्या ॥

    सन्तानयन्ति जलधिं जनिमृत्युजालम्
          सम्भावयन्त्यविकृतं विकृतं विभग्नम् ।
    यस्या विभूतय इहामितशक्तिपालाः
          नाश्रित्य तां वद कुत शरणं व्रजामः ॥

    मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्
          स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः ।
    मृत्युच्छाया तव दया त्वमृतञ्च मातः
          मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥

    क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः
          धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् ।
    श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम्
          सेवासारैरभिनुतं शरणं प्रपद्ये ॥

    या मामा जन्म विनयत्यतिदुःखमार्गैः
          आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः ।
    या मे बुद्धिं सुविदधे सततं धरण्यम्
          साम्बा सर्वा मम गतिः सफले फले वा ।।

    No comments

    Post Top Ad

    Post Bottom Ad