Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ११६, ११७, ११८, ११९ and १२०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११६.

    नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः।
    यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन॥ १.११६.०१

    वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना।
    तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय॥ १.११६.०२

    तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः।
    तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः॥ १.११६.०३

    तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः।
    समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः॥ १.११६.०४

    अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे।
    यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम्॥ १.११६.०५

    यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति।
    तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः॥ १.११६.०६

    युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम्।
    कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः॥ १.११६.०७

    हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम्।
    ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति॥ १.११६.०८

    परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम्।
    क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य॥ १.११६.०९

    जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात्।
    प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम्॥ १.११६.१०

    तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम्।
    यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय॥ १.११६.११

    तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम्।
    दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच॥ १.११६.१२

    अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः।
    श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम्॥ १.११६.१३

    आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम्।
    उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे॥ १.११६.१४

    चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम्।
    सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम्॥ १.११६.१५

    शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार।
    तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन्॥ १.११६.१६

    आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती।
    विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे॥ १.११६.१७

    यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता।
    रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता॥ १.११६.१८

    रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता।
    आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम्॥ १.११६.१९

    परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः।
    विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम्॥ १.११६.२०

    एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा।
    निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः॥ १.११६.२१

    शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः।
    शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम्॥ १.११६.२२

    अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः।
    पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय॥ १.११६.२३

    दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः।
    विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण॥ १.११६.२४

    प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः।
    उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम्॥ १.११६.२५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११७.

    मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम्।
    बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः॥ १.११७.०१

    यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति।
    येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम्॥ १.११७.०२

    ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन।
    मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता॥ १.११७.०३

    अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु।
    सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि॥ १.११७.०४

    सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम्।
    शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय॥ १.११७.०५

    तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन्।
    शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम्॥ १.११७.०६

    युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय।
    घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम्॥ १.११७.०७

    युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय।
    प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम्॥ १.११७.०८

    पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम्।
    सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम्॥ १.११७.०९

    एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः।
    यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम्॥ १.११७.१०

    सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता।
    अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम्॥ १.११७.११

    कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा।
    हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन्॥ १.११७.१२

    युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः।
    युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत॥ १.११७.१३

    युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना।
    युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः॥ १.११७.१४

    अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान्।
    निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति॥ १.११७.१५

    अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य।
    वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण॥ १.११७.१६

    शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा।
    आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे॥ १.११७.१७

    शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति।
    जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान्॥ १.११७.१८

    मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः।
    अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः॥ १.११७.१९

    अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम्।
    युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम्॥ १.११७.२०

    यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा।
    अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय॥ १.११७.२१

    आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम्।
    स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम्॥ १.११७.२२

    सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे।
    अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम्॥ १.११७.२३

    हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम्।
    त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू॥ १.११७.२४

    एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन्।
    ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम॥ १.११७.२५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११८.

    आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ्।
    यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः॥ १.११८.०१

    त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक्।
    पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे॥ १.११८.०२

    प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः।
    किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः॥ १.११८.०३

    आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः।
    ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति॥ १.११८.०४

    आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य।
    परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके॥ १.११८.०५

    उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः।
    निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम्॥ १.११८.०६

    युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम्।
    युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा॥ १.११८.०७

    युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय।
    अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम्॥ १.११८.०८

    युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम्।
    जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम्॥ १.११८.०९

    ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः।
    आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम्॥ १.११८.१०

    आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः।
    हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ॥ १.११८.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११९.

    आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे।
    सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः॥ १.११९.०१

    ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः।
    स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत्॥ १.११९.०२

    सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे।
    युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम्॥ १.११९.०३

    युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ।
    यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः॥ १.११९.०४

    युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम्।
    आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती॥ १.११९.०५

    युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये।
    युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा॥ १.११९.०६

    युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः।
    क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत्॥ १.११९.०७

    अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम्।
    स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः॥ १.११९.०८

    उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति।
    युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत्॥ १.११९.०९

    युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः।
    शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम्॥ १.११९.१०


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२०.

    का राधद्धोत्राश्विना वां को वां जोष उभयोः।
    कथा विधात्यप्रचेताः॥ १.१२०.०१

    विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः।
    नू चिन्नु मर्ते अक्रौ॥ १.१२०.०२

    ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य।
    प्रार्चद्दयमानो युवाकुः॥ १.१२०.०३

    वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा।
    पातं च सह्यसो युवं च रभ्यसो नः॥ १.१२०.०४

    प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम्।
    प्रैषयुर्न विद्वान्॥ १.१२०.०५

    श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम्।
    आक्षी शुभस्पती दन्॥ १.१२०.०६

    युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम्।
    ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः॥ १.१२०.०७

    मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः।
    स्तनाभुजो अशिश्वीः॥ १.१२०.०८

    दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै।
    इषे च नो मिमीतं धेनुमत्यै॥ १.१२०.०९

    अश्विनोरसनं रथमनश्वं वाजिनीवतोः।
    तेनाहं भूरि चाकन॥ १.१२०.१०

    अयं समह मा तनूह्याते जनाँ अनु।
    सोमपेयं सुखो रथः॥ १.१२०.११

    अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः।
    उभा ता बस्रि नश्यतः॥ १.१२०.१२

    No comments

    Post Top Ad

    Post Bottom Ad