Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १५६, १५७, १५८, १५९ and १६०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५६.

    भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः।
    अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता॥ १.१५६.०१

    यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति।
    यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत्॥ १.१५६.०२

    तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन।
    आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे॥ १.१५६.०३

    तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः।
    दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते॥ १.१५६.०४

    आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः।
    वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत्॥ १.१५६.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५७.

    अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा।
    आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्॥ १.१५७.०१

    यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम्।
    अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि॥ १.१५७.०२

    अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः।
    त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे॥ १.१५७.०३

    आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम्।
    प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा॥ १.१५७.०४

    युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः।
    युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम्॥ १.१५७.०५

    युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः।
    अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश॥ १.१५७.०६


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५८.

    वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ।
    दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती॥ १.१५८.०१

    को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः।
    जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता॥ १.१५८.०२

    युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः।
    उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः॥ १.१५८.०३

    उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम्।
    मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम्॥ १.१५८.०४

    न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः।
    शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध॥ १.१५८.०५

    दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे।
    अपामर्थं यतीनां ब्रह्मा भवति सारथिः॥ १.१५८.०६


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १५९.

    प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा।
    देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः॥ १.१५९.०१

    उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः।
    सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः॥ १.१५९.०२

    ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये।
    स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः॥ १.१५९.०३

    ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा।
    नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः॥ १.१५९.०४

    तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे।
    अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम्॥ १.१५९.०५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६०.

    ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी।
    सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः॥ १.१६०.०१

    उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः।
    सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत्॥ १.१६०.०२

    स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया।
    धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत॥ १.१६०.०३

    अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा।
    वि यो ममे रजसी सुक्रतूययाजरेभिः स्कम्भनेभिः समानृचे॥ १.१६०.०४

    ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत्।
    येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम्॥ १.१६०.०५

    No comments

    Post Top Ad

    Post Bottom Ad