Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १२६, १२७, १२८, १२९ and १३०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२६.

    अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य।
    यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः॥ १.१२६.०१

    शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम्।
    शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान॥ १.१२६.०२

    उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः।
    षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम्॥ १.१२६.०३

    चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति।
    मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः॥ १.१२६.०४

    पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः।
    सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः॥ १.१२६.०५

    आगधिता परिगधिता या कशीकेव जङ्गहे।
    ददाति मह्यं यादुरी याशूनां भोज्या शता॥ १.१२६.०६

    उपोप मे परा मृश मा मे दभ्राणि मन्यथाः।
    सर्वाहमस्मि रोमशा गन्धारीणामिवाविका॥ १.१२६.०७


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२७.

    अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्।
    य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
    घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः॥ १.१२७.०१

    यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः।
    परिज्मानमिव द्यां होतारं चर्षणीनाम्।
    शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः॥ १.१२७.०२

    स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः।
    वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्।
    निःषहमाणो यमते नायते धन्वासहा नायते॥ १.१२७.०३

    दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे।
    प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा।
    स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा॥ १.१२७.०४

    तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात्।
    आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे।
    भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः॥ १.१२७.०५

    स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः।
    आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा।
    अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम्॥ १.१२७.०६

    द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः।
    अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम्।
    प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः॥ १.१२७.०७

    विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे।
    अतिथिं मानुषाणां पितुर्न यस्यासया।
    अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः॥ १.१२७.०८

    त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये।
    शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः।
    अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर॥ १.१२७.०९

    प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये।
    प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे।
    अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम्॥ १.१२७.१०

    स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना।
    महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै।
    महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा॥ १.१२७.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२८.

    अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम्।
    विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते।
    अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे॥ १.१२८.०१

    तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता।
    स न ऊर्जामुपाभृत्यया कृपा न जूर्यति।
    यं मातरिश्वा मनवे परावतो देवं भाः परावतः॥ १.१२८.०२

    एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत्।
    शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः।
    सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु॥ १.१२८.०३

    स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति।
    क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे।
    यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत॥ १.१२८.०४

    क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या।
    स हि ष्मा दानमिन्वति वसूनां च मज्मना।
    स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः॥ १.१२८.०५

    विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत्।
    विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे।
    विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति॥ १.१२८.०६

    स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः।
    स हव्या मानुषाणामिळा कृतानि पत्यते।
    स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः॥ १.१२८.०७

    अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे।
    विश्वायुं विश्ववेदसं होतारं यजतं कविम्।
    देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः॥ १.१२८.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १२९.

    यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि।
    सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम्।
    सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम्॥ १.१२९.०१

    स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः।
    यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता।
    तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम्॥ १.१२९.०२

    दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम्।
    इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे।
    मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः॥ १.१२९.०३

    अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम्।
    अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित्।
    नहि त्वा शत्रुः स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम्॥ १.१२९.०४

    नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः।
    नेषि णो यथा पुरानेनाः शूर मन्यसे।
    विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ॥ १.१२९.०५

    प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति।
    स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम्।
    अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत्॥ १.१२९.०६

    वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम्।
    दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि।
    आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः॥ १.१२९.०७

    प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम्।
    स्वयं सा रिषयध्यै या न उपेषे अत्रैः।
    हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति॥ १.१२९.०८

    त्वं न इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्यरक्षसा।
    सचस्व नः पराक आ सचस्वास्तमीक आ।
    पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः॥ १.१२९.०९

    त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे।
    ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य।
    अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः॥ १.१२९.१०

    पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम्।
    हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः।
    अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो॥ १.१२९.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३०.

    एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः।
    हवामहे त्वा वयं प्रयस्वन्तः सुते सचा।
    पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये॥ १.१३०.०१

    पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः।
    मदाय हर्यताय ते तुविष्टमाय धायसे।
    आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम्॥ १.१३०.०२

    अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि।
    व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः।
    अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः॥ १.१३०.०३

    दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत्।
    संविव्यान ओजसा शवोभिरिन्द्र मज्मना।
    तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि॥ १.१३०.०४

    त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव।
    इत ऊतीरयुञ्जत समानमर्थमक्षितम्।
    धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः॥ १.१३०.०५

    इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः।
    शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम्।
    अत्यमिव शवसे सातये धना विश्वा धनानि सातये॥ १.१३०.०६

    भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो।
    अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत्।
    महो धनानि दयमान ओजसा विश्वा धनान्योजसा॥ १.१३०.०७

    इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु।
    मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्।
    दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति॥ १.१३०.०८

    सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति।
    उशना यत्परावतोऽजगन्नूतये कवे।
    सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः॥ १.१३०.०९

    स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः।
    दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः॥ १.१३०.१०

    No comments

    Post Top Ad

    Post Bottom Ad