Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १०१, १०२, १०३, १०४,१०५, १०६, १०७, १०८, १०९ and ११०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०१.

    प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना।
    अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०१

    यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम्।
    इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०२

    यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः।
    यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०३

    यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः।
    वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०४

    यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत्।
    इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०५

    यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः।
    इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०६

    रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः।
    इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे॥ १.१०१.०७

    यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे।
    अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः॥ १.१०१.०८

    त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः।
    अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व॥ १.१०१.०९

    मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने।
    आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व॥ १.१०१.१०

    मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम्।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०१.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०२.

    इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे।
    तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु॥ १.१०२.०१

    अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः।
    अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम्॥ १.१०२.०२

    तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे।
    आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः॥ १.१०२.०३

    वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे।
    अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज॥ १.१०२.०४

    नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः।
    अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव॥ १.१०२.०५

    गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः।
    अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः॥ १.१०२.०६

    उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः।
    अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर॥ १.१०२.०७

    त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना।
    अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि॥ १.१०२.०८

    त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः।
    सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः॥ १.१०२.०९

    त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च।
    त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय॥ १.१०२.१०

    विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम्।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०२.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०३.

    तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम्।
    क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः॥ १.१०३.०१

    स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज।
    अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः॥ १.१०३.०२

    स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः।
    विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र॥ १.१०३.०३

    तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत्।
    उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे॥ १.१०३.०४

    तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय।
    स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि॥ १.१०३.०५

    भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम्।
    य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः॥ १.१०३.०६

    तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम्।
    अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा॥ १.१०३.०७

    शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०३.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०४.

    योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा।
    विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे॥ १.१०४.०१

    ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात्।
    देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम्॥ १.१०४.०२

    अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन्।
    क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः॥ १.१०४.०३

    युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः।
    अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते॥ १.१०४.०४

    प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात्।
    अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः॥ १.१०४.०५

    स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे।
    मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय॥ १.१०४.०६

    अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय।
    मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः॥ १.१०४.०७

    मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः।
    आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि॥ १.१०४.०८

    अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय।
    उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः॥ १.१०४.०९


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०५.

    चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि।
    न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी॥ १.१०५.०१

    अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम्।
    तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी॥ १.१०५.०२

    मो षु देवा अदः स्वरव पादि दिवस्परि।
    मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी॥ १.१०५.०३

    यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति।
    क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी॥ १.१०५.०४

    अमी ये देवाः स्थन त्रिष्वा रोचने दिवः।
    कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी॥ १.१०५.०५

    कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम्।
    कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी॥ १.१०५.०६

    अहं सो अस्मि यः पुरा सुते वदामि कानि चित्।
    तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी॥ १.१०५.०७

    सं मा तपन्त्यभितः सपत्नीरिव पर्शवः।
    मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी॥ १.१०५.०८

    अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता।
    त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी॥ १.१०५.०९

    अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः।
    देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी॥ १.१०५.१०

    सुपर्णा एत आसते मध्य आरोधने दिवः।
    ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी॥ १.१०५.११

    नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम्।
    ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी॥ १.१०५.१२

    अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम्।
    स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी॥ १.१०५.१३

    सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः।
    अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी॥ १.१०५.१४

    ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे।
    व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी॥ १.१०५.१५

    असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः।
    न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी॥ १.१०५.१६

    त्रितः कूपेऽवहितो देवान्हवत ऊतये।
    तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी॥ १.१०५.१७

    अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि।
    उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी॥ १.१०५.१८

    एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०५.१९


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०६.

    इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०१

    त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०२

    अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०३

    नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०४

    बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०५

    इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये।
    रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन॥ १.१०६.०६

    देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन्।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०६.०७


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०७.

    यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः।
    आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत्॥ १.१०७.०१

    उप नो देवा अवसा गमन्त्वङ्गिरसां सामभिः स्तूयमानाः।
    इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत्॥ १.१०७.०२

    तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात्।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०७.०३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०८.

    य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे।
    तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य॥ १.१०८.०१

    यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम्।
    तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम्॥ १.१०८.०२

    चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः।
    ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम्॥ १.१०८.०३

    समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा।
    तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम्॥ १.१०८.०४

    यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि।
    या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य॥ १.१०८.०५

    यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः।
    तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.०६

    यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.०७

    यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.०८

    यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.०९

    यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.१०

    यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.११

    यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे।
    अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य॥ १.१०८.१२

    एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०८.१३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १०९.

    वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान्।
    नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम्॥ १.१०९.०१

    अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात्।
    अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम्॥ १.१०९.०२

    मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः।
    इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे॥ १.१०९.०३

    युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति।
    तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु॥ १.१०९.०४

    युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये।
    तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य॥ १.१०९.०५

    प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च।
    प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या॥ १.१०९.०६

    आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः।
    इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन्॥ १.१०९.०७

    पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.१०९.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ११०.

    ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते।
    अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः॥ १.११०.०१

    आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः।
    सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम्॥ १.११०.०२

    तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन।
    त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम्॥ १.११०.०३

    विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः।
    सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः॥ १.११०.०४

    क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम्।
    उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः॥ १.११०.०५

    आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना।
    तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः॥ १.११०.०६

    ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः।
    युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम्॥ १.११०.०७

    निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः।
    सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन॥ १.११०.०८

    वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः।
    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.११०.०९

    No comments

    Post Top Ad

    Post Bottom Ad