Header Ads

  • Breaking News

    श्रीरघुनाथाष्टकम् ।। Astro Classes.

    Shri Raghunath Ashtakam. श्रीरघुनाथाष्टकम् ।। Astro Classes, Silvassa.

    श्री गणेशाय नमः ।।
    शुनासीराधीशैरवनितलज्ञप्तीडितगुणं
    प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् ।
    सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे
    ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥

    निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे
    पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् ।
    विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ २॥

    गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं
    ससौमित्रिं त्यक्‍त्वेप्सितमपि सुराणां नृपसुखम् ।
    विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ३॥

    विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं
    गतं पम्पातीरे पवनसुतसम्मेलनसुखम् ।
    गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ४॥

    प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं
    जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् ।
    विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ५॥

    विमानं चारुह्याऽनुजजनकजासेवितपद
    मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् ।
    सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ६॥

    प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं
    सदाचारं वेदोदितमपि च कर्तारमखिलम् ।
    नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं
    सतीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ७॥

    तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति
    ज्ञात्वा जगति खलु गन्तारमजनम् ॥

    अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं
    ससीतं सानन्दं  प्रणत रघुनाथं सुरनुतम् ॥ ८॥

    रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् ।
    पठतां पापराशिघ्नं भुक्‍तिमुक्‍तिप्रदायकम् ॥ ९॥

    ॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad