Header Ads

  • Breaking News

    श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ।। Astro Classes.

    Shri Lalitatripurasundari Hridayastotram.
    श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीललितात्रिपुरसुन्दर्यै नमः ॥

    ॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥

    ॐ शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् ।
    वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥ १॥

    भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् ।
    सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥ २॥

    श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् ।
    नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥ ३॥

    बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् ।
    दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥ ४॥

    दलाष्टकसमोपेतं दलषोडशकान्वितम् ।
    वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥ ५॥

    नमामि ललिताचक्रं भक्तानामेतदिष्टदम् ।
    अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥ ६॥

    नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् ।
    सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥ ७॥

    मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् ।
    नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ ८॥

    पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् ।
    पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥ ९॥

    गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
    वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥ १०॥

    इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् ।
    मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥ ११॥

    मरकताख्यमहारत्नप्राकाराय नमस्तव ।
    विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥ १२॥

    माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् ।
    ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥ १३॥

    आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् ।
    भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥ १४॥

    महाशृङ्गारपरिखां महापद्माटवीं भजे ।
    चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ १५॥

    पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते ।
    दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥ १६॥

    नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् ।
    वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥ १७॥

    ऊर्ध्वाम्नायमऽहं वन्दे ऊर्ध्वद्वारं कुलेश्वरि ।
    ललिते तव देवेशि महासिंहासनं भजे ॥ १८॥

    ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् ।
    एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥ १९॥

    एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् ।
    मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥ २०॥

    मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् ।
    नमामि ते हंसतूलतलिमां परमेश्वरि ॥ २१॥

    भजामि ते हंसतूल महोपाधानमुत्तमम् ।
    कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥ २२॥

    मानसपूजा ।

    महावितानकं वन्दे महाजवनिकां भजे ।
    एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ २३॥

    मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् ।
    अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥ २४॥

    मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् ।
    त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥ २५॥

    वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे ।
    शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥ २६॥

    त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् ।
    अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ २७॥

    ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
    करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥ २८॥

    नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् ।
    देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥ २९॥

    ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् ।
    कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥ ३०॥

    मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि ।
    नमो देव्यासनायेति ते करोम्यासनं शिवे ॥ ३१॥

    चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे ।
    साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥ ३२॥

    करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् ।
    करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥ ३३॥

    वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् ।
    महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ ३४॥

    चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् ।
    केशवादि महान्यासं कामन्यासं करोम्यहम् ॥ ३५॥

    कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् ।
    पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥ ३६॥

    ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि ।
    ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥ ३७॥

    करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये ।
    पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥ ३८॥

    अर्चयामि षडङ्गेन जलमापूरयाम्यहम् ।
    ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥ ३९॥

    तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् ।
    षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥ ४०॥

    विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् ।
    बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥ ४१॥

    तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये ।
    धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥ ४२॥

    ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् ।
    सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥ ४३॥

    नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् ।
    यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ ४४॥

    सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् ।
    अर्घ्यपात्रे त्वऽहं वन्दे तपिनीं तापिनीं भजे ॥ ४५॥

    धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे ।
    सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ ४६॥

    धारिणीं च क्षमां वन्दे सौरा एताः कला भजे ।
    सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥ ४७॥

    अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे ।
    पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥ ४८॥

    शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे ।
    नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥ ४९॥

    स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः ।
    त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥ ५०॥

    हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् ।
    वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥ ५१॥

    वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् ।
    पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥ ५२॥

    श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् ।
    समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ ५३॥

    ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् ।
    चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥ ५४॥

    वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे ।
    आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ ५५॥

    सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् ।
    लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥ ५६॥

    एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे ।
    शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥ ५७॥

    वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् ।
    टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ ५८॥

    एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा ।
    निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ ५९॥

    उद्गारीं च भजे मृत्युमेता रुद्रकला भजे ।
    पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥ ६०॥

    भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा ।
    ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ ६१॥

    निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् ।
    इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥ ६२॥

    परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् ।
    वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥ ६३॥

    आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् ।
    कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ ६४॥

    हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये ।
    प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥ ६५॥

    त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् ।
    विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥ ६६॥

    अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव ।
    अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥ ६७॥

    स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ।
    अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥ ६८॥

    अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।
    तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥ ६९॥

    भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु ।
    अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥ ७०॥

    वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् ।
    एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥ ७१॥

    ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि।
    तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥ ७२॥

    ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् ।
    हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥ ७३॥

    निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् ।
    नासापुटे परकलामथ निर्गमयाम्यहम् ॥ ७४॥

    समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ ।
    जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥ ७५॥

    सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे ।
    अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥ ७६॥

    महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
    सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ७७॥

    देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
    यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ७८॥

    अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।
    कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥ ७९॥

    सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् ।
    कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ ८०॥

    दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् ।
    गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥ ८१॥

    हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् ।
    कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥ ८२॥

    बालभानुप्रतीकाशं दुकूलपरिधानकम् ।
    अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥ ८३॥

    प्रवेशनं कल्पयामि तवालेपनमण्डपम् ।
    नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥ ८४॥

    अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् ।
    कालागरु महाधूपस्तव केशभरस्य हि ॥ ८५॥

    मल्लिकामालतीजातीचम्पकादिमनोरमैः ।
    रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥ ८६॥

    प्रवेशनं कल्पयामि नमो भूषणमण्डपम् ।
    उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ ८७॥

    नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः ।
    ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥ ८८॥

    कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् ।
    मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥ ८९॥

    ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् ।
    अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥ ९०॥

    पदकं ते कल्पयामि महापदकमुत्तमम् ।
    कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥ ९१॥

    छन्नवीरं च केयूरयुगलानां चतुष्टयम् ।
    वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ ९२॥

    काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते ।
    त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥ ९३॥

    पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव ।
    अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥ ९४॥

    अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके ।
    नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥ ९५॥

    कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् ।
    सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ ९६॥

    कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे ।
    आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥ ९७॥

    मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् ।
    ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥ ९८॥

    तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि ।
    धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥ ९९॥

    अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके ।
    रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥ १००॥

    ध्यानम् ।

    उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् ।
    नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ १०१॥

    चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् ।
    कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥ १०२॥

    अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् ।
    मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥ १०३॥

    मुक्तामाणिक्यखचितनासिकाभरणान्विताम् ।
    मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥ १०४॥

    पक्वबिम्बफलाभासाधरद्वयविराजिताम् ।
    शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥ १०५॥

    ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् ।
    आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥ १०६॥

    पदकेन समोपेतां महापदकसंयुताम् ।
    मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ १०७॥

    केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् ।
    अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥ १०८॥

    हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् ।
    रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥ १०९॥

    सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् ।
    मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥ ११०॥

    सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् ।
    कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥ १११॥

    कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् ।
    गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥ ११२॥

    ब्रह्माविष्णुमहादेवशिरोमुकुटजातया ।
    कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥ ११३॥

    इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् ।
    संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥ ११४॥

    इति ध्यानम् ।

    प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः ।
    त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ ११५॥

    आग्नेय्यामीशदिग्भागे नैऋत्यां मारुते तथा ।
    मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥ ११६॥

    आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् ।
    नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥ ११७॥

    वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे ।
    शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥ ११८॥

    नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् ।
    ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥ ११९॥

    दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् ।
    मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥ १२०॥

    चर्यानाथं नमस्यामि लोपामुद्रामहं भजे ।
    अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥ १२१॥

    धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे ।
    भजे दीपकलानाथं मानवौघे ततः परम् ॥ १२२॥

    विष्णुदेवं नमस्यामि प्रभाकरमहं भजे ।
    तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥ १२३॥

    कल्याणदेवं कलये रत्नदेवं भजाम्यहम् ।
    वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥ १२४॥

    परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये ।
    श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ १२५॥

    कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः ।
    अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ १२६॥

    अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् ।
    ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥ १२७॥

    प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे ।
    प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥ १२८॥

    मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे ।
    कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥ १२९॥

    माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे ।
    तृतीये चतुरस्रेऽहं सर्वसङ्क्षोभिणीं भजे ॥ १३०॥

    सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे ।
    मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥ १३१॥

    भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ।
    बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥ १३२॥

    त्रैलोक्यमोहनं चक्रं नमामि ललिते तव ।
    नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥ १३३॥

    सुधार्णवासनं वन्दे तत्र ते परमेश्वरि ।
    चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥ १३४॥

    सर्वेसङ्क्षोभिणीं मुद्रां ततोऽहं कलये शिवे ।
    अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥ १३५॥

    बुद्ध्याकर्षणिकां वन्देऽहङ्कार्षणीं भजे ।
    शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥ १३६॥

    रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे ।
    गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥ १३७॥

    धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे ।
    नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥ १३८॥

    आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे ।
    शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥ १३९॥

    सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि ।
    गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥ १४०॥

    पीताम्बुजासनं तत्र नमामि ललिते तव ।
    त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥ १४१॥

    सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये ।
    शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥ १४२॥

    अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे ।
    ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥ १४३॥

    अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् ।
    भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥ १४४॥

    सर्वसङ्क्षोभणं चक्रं तत्राऽहं कलये सदा ।
    वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥ १४५॥

    तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् ।
    नमामि जगदीशानीमऽहं त्रिपुरसुन्दरीम् ॥ १४६॥

    सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते ।
    भुवनारे तव शिवे सर्वसङ्क्षोभिणीं भजे ॥ १४७॥

    सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे ।
    सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥ १४८॥

    सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् ।
    वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥ १४९॥

    सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् ।
    सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥ १५०॥

    भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् ।
    तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥ १५१॥

    नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् ।
    शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ १५२॥

    नमामि जगदीशानीमहं त्रिपुरवासिनीम् ।
    कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥ १५३॥

    बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
    सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥ १५४॥

    नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् ।
    सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥ १५५॥

    सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् ।
    सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥ १५६॥

    सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा ।
    कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥ १५७॥

    सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये ।
    कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥ १५८॥

    अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् ।
    सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५९॥

    सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् ।
    सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥ १६०॥

    सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् ।
    प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥ १६१॥

    सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा ।
    निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥ १६२॥

    साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् ।
    कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥ १६३॥

    अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा ।
    मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥ १६४॥

    सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् ।
    सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥ १६५॥

    रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते ।
    नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥ १६६॥

    महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि ।
    नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥ १६७॥

    पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् ।
    त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥ १६८॥

    महावज्रेश्वरीं  वन्दे महाश्रीमालिनीं भजे ।
    महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥ १६९॥

    सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् ।
    नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥ १७०॥

    त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् ।
    मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥ १७१॥

    सर्वानन्दमयं चक्रं नमामि ललिते तव ।
    परापररहस्याख्यां योगिनीं कलये सदा ॥ १७२॥

    महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे ।
    धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥ १७३॥

    त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे ।
    त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥ १७४॥

    शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् ।
    घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥ १७५॥

    ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् ।
    निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७६॥

    सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च ।
    योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥ १७७॥

    एतत् कामकलारूपं भक्तानां सर्वकामदम् ।
    सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥ १७८॥

    वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् ।
    कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ १७९॥

    वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् ।
    जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥ १८०॥

    तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् ।
    नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ १८१॥

    नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि ।
    प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥ १८२॥

    ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् ।
    प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा ।
    तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥ १८३॥

    महादेवि महेशानि सदाशिव महाप्रिये ।
    महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥ १८४॥

    जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि ।
    सदाशिवप्रियकरि पाहि मां करुणाकरि ॥ १८५॥

    जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे ।
    जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥ १८६॥

    अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि ।
    गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ १८७॥

    जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते ।
    विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ १८८॥

    ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि ।
    सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥ १८९॥

    नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये ।
    अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥ १९०॥

    ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते ।
    ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥ १९१॥

    लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते ।
    भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥ १९२॥

    सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे ।
    नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥ १९३॥

    त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् ।
    मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥ १९४॥

    तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् ।
    त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ १९५॥

    बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् ।
    तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥ १९६॥

    जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये ।
    हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥ १९७॥

    सर्वलोकैकसम्पूज्ये सकलावरणैर्युते ।
    हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥ १९८॥

              ॥ फलश्रुति ॥

    एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।
    महारहस्यं परमं दुर्लभं दैवतैरपि ॥ १॥

    साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ २॥

    यः पठेन्नित्यमेकाग्रः श्रृणुयाद् वा समाहितः ।
    नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥ ३॥

    पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः ।
    सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥ ४॥  missing letter or word

    सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् ।
    तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ ५॥

    अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
    साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ ६॥

    अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः ।
    गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥ ७॥

    शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते ।
    वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥ ८॥

    भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः ।
    सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ ९॥

    रमन्ते तेन सततं शीघ्रं वश्या न संशयः ।
    राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ १०॥

    अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः ।
    ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥ ११॥

    महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् ।
    परमं योगमासाद्य खेचरो जायते सदा ॥ १२॥

    अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः ।
    परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ १३॥

    अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा ।
    मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ १४॥

    ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः ।
    एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ १५॥

    तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति ।
    सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥ १६॥

    तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
    जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ १७॥

    साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् ।
    विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥ १८॥

    प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् ।
    तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥ १९॥

    मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः ।
    स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥ २०॥

    लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् ।
    परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥ २१॥

    सृष्टिपालनसंहारकर्तेवायं सदा भवेत् ।
    यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥ २२॥

    तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् ।
    तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ २३॥

    चिन्तामणिश्च सततं तिष्ठत्येव न संशयः ।
    महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ २४॥

    वज्रकायसमो भूत्वा चरत्येव जगत्ययम् ।
    महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥ २५॥

    मुच्यते सकलेभ्योऽपि बन्धनैः श्रृङ्खलादिभिः ।
    तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥ २६॥

    शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते ।
    देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥ २७॥

    प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः ।
    दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥ २८॥

    विमानं स समास्थाय दिव्याभरणभूषितः ।
    दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥ २९॥

    स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा ।
    तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् ।
    जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥ ३०॥

    ॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad