Header Ads

  • Breaking News

    आनन्द रामायण, पञ्चमः सर्गः अथवा रामरक्षा स्तोत्रम् ।। Astro Classes.

    Shri MadAnanda Ramayane Panchamah Sargah Athava Rama Raksha Stotram.
    आनन्द रामायण, पञ्चमः सर्गः अथवा रामरक्षा स्तोत्रम् ।। Astro Classes, Silvassa.

    श्री आनन्द रामायण, पञ्चमः सर्गः अथवा रामरक्षा स्तोत्रम् ।। BALAJI VEDA VIDYALAYA.

    अथ श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे पञ्चमः सर्गः प्रारम्भः ।।

    विष्णुदास उवाच:-
    श्री रामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् ।
    कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥

    रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् ।
    इति शिष्यवचः श्रुत्वा रामदासोऽप्रवीद्वचः ॥ २॥

    श्रीरामदास उवाच:-
    सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते ।
    या प्रोक्ता शम्भुना पूर्वं स्कन्दार्थं गिरिजां प्रति ॥ ३॥

    श्री शिव उवाच:-
    देव्यद्य स्कन्दपुत्राय रामरक्षाभिमन्त्रिणम् ।
    कुरु तारकधाताय समर्थोऽयं भविष्यति ॥ ४॥

    इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै ।
    नमस्कृताय रामचन्द्रं शुचिर्भूत्वा जितेन्द्रियैः ॥ ५॥

    अथ ध्यानम् ।
    वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं ।
    पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् ।
    वामेऽवामे वसद्भ्यां सह मिलिततनुं जानकीलक्ष्मणाभ्याम् ।
    श्यामं रामं भजेऽहं प्रणत जनमनः खेदविच्छेददक्षम् ॥ ६॥

    ॐ अस्य श्री रामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः । श्री रामचन्द्रो देवता राम इति बीजम् । अनुष्टुप् छन्दः । श्री राम प्रीत्यर्थे जपे विनियोगः॥

               ॥ ॐ॥

    चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
    एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ७॥

    ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
    जानकी - लक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ ८॥

    सासितूण धनुर्बाण पाणिं नक्तञ्चरान्तकम् ।
    स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ९॥

    रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
    शिरो मे राघवः पातु भालं दशरथात्मजः ॥१०॥

    कौसल्येयो दृशौ पातु-विश्वामित्रप्रियः श्रुती ।
    घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥११॥

    जिह्वां विधानिधिः पातु कण्ठं भरतवन्दितः ।
    स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ १२॥

    करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
    पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनन्दनः ॥ १३ ॥

    मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।
    सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥ १४॥

    उरू रघूत्तमः पातु गुह्यं रक्षः कुलान्तकृत् ।
    जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ १५॥

    पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ।
    एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥

    स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १६॥

    पातालभूतलव्योम चारिणश्छद्मचारिणः ।
    न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ १७॥

    रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
    नरो न लिप्यते पापैउर्भुक्तिं मुक्तिं च विन्दति ॥ १८॥

    जगच्चैकमन्त्रेण रामनाम्नाऽभिरक्षितम् ।
    यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १९॥

    वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
    अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ २०॥

    आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
    तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ २१॥

    रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली॥
    काकुत्त्स्थः पुरुषः पूर्णः कौसल्यानन्दवर्धनः ॥ २२॥

    वेदान्तवेधो यज्ञेशः पुराणपुरुषोत्तमः ।
    जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ २३॥

    इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयान्वितः ।
    अश्वमेधधिकं पुण्यं लभते नात्रसंशयः ॥ २४॥

    सन्नध्हः कवची खड्गी चायबाणधरो युवा ।
    गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २५॥

    तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
    पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ २६॥

    फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
    पुत्रौ दशरथस्यैतौ भ्रतरौ रामलक्ष्मणौ ॥ २७॥

    धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ ।
    वरौ मां पथि रक्षेतां तावुबौ रामलक्ष्मणौ ॥ २८॥

    शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् ।
    रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ २९॥

    आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषङ्ग सङ्गिनौ ।
    रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥ ३०॥

    आरामः कल्पवृक्षाणां विरामः सकलपदाम् ।
    अभिरामस्त्रिलोकानं रामः श्रीमान्स नः प्रभुः ॥ ३१॥

    रामाय रामभद्राय रामचन्द्राय वेधसे ।
    रघुनाथय नाथाय सीतयाः पतये नमः ॥ ३२॥

    श्री राम रघुनन्दन राम राम ।
    श्री राम भरताग्रज राम राम ।।
    श्री राम रणकर्कश राम राम ।
    श्री राम शरणं भव राम राम ।।३३।।

    लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं ।।
    कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३४॥

    दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
    पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३५
    गोष्पदीकृतवारीशं मशकीकृरराक्षसम् ।
    रामायणमहामाला रत्नं वन्देऽनिलात्मजम् ॥ ३६॥

    अघौध तिष्ठ दूरे त्वं रोगास्तिष्ठन्तु दूरतः ।
    वरीवर्ती सदाऽस्माकं हृदि रमो धनुर्धरः ॥ ३७॥

    मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
    वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३८॥

    राम राम तव पाद पङ्कजं चिन्तयामि भवबन्धमुक्तये ।
    वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥ ३७॥

    रामं लक्षमणपूर्वजं रघुवरं सीतापतिं सुन्दरम् ।
    काकुत्स्यं करुणार्णवं गुणनिधिं विप्रप्रियं धर्र्मिकम् ।
    राजेन्द्रं सत्यसन्धं दशरथनयं शामलं शान्तिमूर्तिम् ।
    वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ४०॥

    एतानि रामनामानी प्रातरुत्थाय यः पठेत् ।
    अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥ ४१॥

    माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः ।
    सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ४२॥

    श्रीरामनामामृत मन्त्रबीज सञ्जीवनी चेन्मनसि प्रविष्टा ।
    हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥ ४३॥

    श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयनापि पुनः प्रयुक्तम् ।
    त्रिःसप्तकृत्वो रघुनाथ नाम जपान्निहन्या द्विजकोटिहायाः ॥ ४४॥

    एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव ।
    मयोपदिष्टा या स्वप्ने विश्वामित्राय वै पुरा ॥ ४५॥

    रामदास उवाच:-
    एवं शिवेनोपदिष्टं श्रुत्वा देवी गिरीन्द्रजा ।
    रामरक्षां पठित्वा सा स्कन्दं समभिमन्त्रयत् ॥ ४६॥

    तस्यास्तेजोबलेनैव जघान तारकासुरम् ।
    षडाननः क्षणदेव कृतकृत्योऽभवत् पुरा ॥ ४७॥

    सैवेयं रामरक्षास्ते मयाख्याताऽतिपुण्यदा ।
    यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥ ४८॥

    वाल्मिकीनाऽनयापूर्वं कुशायह्यभिशेचनम् ।
    कृतं बालग्रहाणां च शान्त्यर्थं सा मयोदिता ॥ ४९॥

    बालानां ग्रहशान्त्यर्थं जपनीया निरन्तरम् ।
    रामरक्षा महाश्रेष्ठा महाघौघ निवारिणी ॥ ५०॥

    नास्याः परतरं स्तोत्रं नास्याः परतरो जपः ।
    नास्याः परतरं किञ्चित्सत्यं सत्यं वदाम्यहम् ॥ ५१॥

    ॥ इति श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥

    ।। सन्दर्भ : आनन्द रामायण - ( जन्मकाण्ड - ५ वा सर्ग ।।

    No comments

    Post Top Ad

    Post Bottom Ad