Header Ads

  • Breaking News

    चमत्कारचिन्तामणिः भट्टनारायणकृतः ।। Astro Classes.

    चमत्कारचिन्तामणिः भट्टनारायणकृतः ।। Chamtkara Chintamani by Bhatta Narayana. Astro Classes, Silvassa.


    ओंसर्वविघ्नहर्त्रे श्रीगनेशायनमः ।
    श्रीसूर्यादिनवग्रहेभ्योनमः ।
    अथ मालवियदय्वज्ञधर्मेश्वरकृत अन्वयार्थप्रबोधप्रदीपटीकासहित
    श्रीनारायणभत्त-कृत चमत्कार-चिन्तामणिः
    श्रीदुर्गाशरणाख्या मणिप्रभाटीका-टिप्पणी सम्पादकीया
    अथ ग्रन्थकर्तुः भत्तनारायणस्य मङ्गलाचरणम् -
    लसत् पीतपट्टाम्बरं कृष्णचन्द्रं मुदाराधयाऽलिङ्गतं विद्युतेव ।
    धनं सम्प्रणभ्यात्र नारायणाख्यः चमत्कारचिन्तामणिं सम्प्रवक्ष्ये ॥ १॥

    क्वणत् किङ्किण्णीजाल कोलाहलाढ्यं लसत् पीतवासोवसानं चलन्तम् ।
    यशोदाङ्गणे योगिनामप्यगम्यं भजेऽहं मुकुन्दं धनश्यामवर्णम् ॥ २॥

    चतुर्लक्षज्योतिर्महाम्बोधिमुच्चैः प्रमध्यैव विद्वद्जनानन्दहेतोः ।
    परं युक्तिरम्यं सुसंक्षिप्तशब्दं भुजङ्गप्रयातैः प्रबन्धं करोमि ॥ ३॥

    न चेत् खेचराः स्थापिताः किं भचक्रे न चेत् स्पष्टगाः स्थापिताः किं ग्रहेन्द्रैः ।
    अभावोदिता स्पष्टाकोऽत्रहेतुः फलैरेवपूर्वं ब्रुवे तानि तस्मात् ॥ ४॥



    अथ सूर्यफलम् -
    तनुस्थो रविः तुङ्गयष्टिं विधत्ते मनः सन्तपेत् दारदायादवर्गात् ।
    वपुः पीड्यते वातपित्तेन नित्यंस वै प्रयटन् ह्रासवृद्धिं प्रयाति ॥ १॥

    धनभाव -
    धने यस्य भानुः स भाग्याधिकः स्यात् चतुष्पात् सुखं सद्व्यये स्वं च याति ।
    कुटुम्बे कलिः जायया जायतेऽपि क्रिया निष्फला याति लाभस्य हेतोः ॥ २॥

    तृतीय भाव फल -
    तृतीये यदोऽहर्मणिर्जन्मकाले प्रतापाधिकं विक्रमं चाऽ।तनोति ।
    तदा सोदरैस्तप्यते तीर्थचारी सदोऽरिक्षयः सङ्गरे शं नरेशात् ॥ ३॥

    चतुर्थभावफल -
    तुरीये दिनेशेऽतिशोभाधिकारी जनः संल्लभेत् विग्रहे बन्धुतोऽपि ।
    प्रवासी विपक्षाहवे मानभङ्गं कदाचिन्न शान्तं भवेत् तस्य चेतः ॥ ४॥

    पञ्चमभाव -
    सुतस्थानगे पूर्वजन्मापत्यतापी कुशाग्रामतिः भास्करे मन्त्रविद्या ।
    रतिः वञ्चने सञ्चकोऽपि प्रमादी मृतः क्रोडरोगादिजा भावनीया ॥ ५॥

    षष्ट्ःअभाव -
    रिपुध्वंसकृद्भास्करो यस्य षष्ठे तनोति व्ययं राजतो मित्रतोऽपि ।
    कुले मातुरापद् चतुष्पादतोवा प्रयाणे निषादैः विषादं करोति ॥ ६॥

    सप्तमभाव -
    द्युनाथो यदा द्युनजातो नरस्य प्रियातापनं पिडपीडा च चिन्ता ।
    भवेत् तुच्छलब्धिः क्रयेविक्रयेऽपि प्रतिस्पर्धया नैति निद्राङ्कदाचित् ॥ ७॥

    अष्टमभाव -
    क्रिया लम्पटं त्वष्टमे कष्टभाजं विदेशीयदारान् भजेद् वाप्यवस्तु ।
    वसुक्षीणता दस्यु तो वा विलम्वाद् विपद् गुह्यतां भानुरुग्रां विधत्ते ॥ ८॥

    नवमभाव -
    दिवानायके दुष्टा कोणयाते न चाप्नोति चिन्ता विरामोऽस्य् चेतः ।
    तपश्चर्ययाऽनिच्छयाऽपि प्रयाति क्रियातुङ्गतां तप्यते सोदरेण ॥ ९॥

    दशमभाव -
    प्रयार्तोऽशुभान् यस्य मेषूरणेऽस्य श्रमः सिधिदो राजतुल्यो नरस्य ।
    जन्न्यास्तथा यातनामातनोतिक्लमः सङ्क्रमेत् बल्लभैः विप्रयोगः ॥ १०॥

    एकादशभाव -
    रवौ संल्लभेत् स्वं च लाभोपयाते नृपद्वारतो राजमुद्राधिकारात् ।
    प्रतापानले शत्रवः सम्पतन्ति श्रियोऽनेकधा दुःखमङ्गोद्भवानाम् ॥ ११॥

    द्वादशभाव -
    रविर्द्वादशे नेत्रदोषं करोति विपक्षाहवे जायतेऽसौ जयश्रीः ।
    स्थितिर्लब्धया लीयते देहदुःखं पितृव्यापदो हानिरध्वप्रदेशे ॥ १२॥



    अथ चन्द्रफल
    प्रथमस्थान का चन्द्र
    विधुर्गोकुलीराजगः सन् वपुस्थो धनाध्यक्षलावण्यमानन्दपूर्णम् ।
    विधते धनं क्षीणदेहं दरिद्रं जडं श्रोत्रहीनं शेषलग्ने ॥ १॥

    द्वितीयभाव का चन्द्र -
    हिमांशौ वसुस्थानगे धान्यलाभः शरीरेऽतिसौख्यं विलासोऽगनानाम् ।
    कुटुम्बे रतिः जायते तस्य तुच्छं वशं दर्शने याति देवाङ्गनाऽपि ॥ २॥

    तृतीयभाव का चन्द्र -
    विधौ विक्रमे विक्रमेर्णैति वित्तं तपस्वी भवेद्भामिनी रञ्जितोऽपि ।
    कियच् चिन्तयेत् साहजं तस्यशर्म प्रतापोज्ज्वलो धर्मिणो वैजयन्त्या ॥ ३॥

    अथ चतुर्थ चन्द्र फल -
    यदा बन्धुग वान्धवैरत्रिजन्मा नृपद्वारि सर्वाधिकारी सदैव ।
    वयस्यादिमे तादृशं नैव सौख्यं सुतस्त्रीगणात् तोप मायाति सम्यक् ॥ ४॥

    अथ पञ्चम चन्द्र फल -
    यदा पञ्चमे यस्य नक्षत्रनाथो ददातीह सन्तानसन्तोषमेव ।
    मतिनिर्मलां रत्नलाभं च भूमिं कुसीदेन नानाप्तयो व्यावसायात् ॥ ५॥

    अथ छठे भाव में चन्द्र का फल -
    रिपौ राजते विग्रहेणाऽपि राजा जितास्तेऽपि भूयो विधौ सम्भवन्ति ।
    तदग्रेऽरयोनिष्प्रभा भूयसोऽपि प्रतापोज्वलो मातृशीलोनतद्वत् ॥ ६॥

    अथ सप्तम चन्द्र फल -
    ददेद् दारशं सप्तमे शीतरश्मिः धनित्वं भवेद्ध्ववाणिज्यतोऽपि ।
    रतिं स्त्रीजने मिष्टभुक् लुब्धचेताः कृशः कृष्णपक्षे विपक्षाभिभूतः ॥ ७॥

    अष्टमभावस्थित चन्द्र का भावफल -
    सभा विद्यते भैषजी तस्यगेहे पचेत् कर्हिचित् क्वाथमुद्गोदकानि ।
    महाव्याधयो भीतयो वारिभूताः शशीक्लेशकृत् सङ्कटान्यष्टमस्थः ॥ ८॥

    नवमभावस्थित चन्द्र का फलः -
    तपोभावगस्तारकेशो जनस्य प्रजाश्च द्विजाः वेदिनः तं स्तुवन्ति ।
    भवत्येव भाग्याधिको यौवनादेः शरीरे सुखं चन्द्रवत् साहसं च ॥ ९॥

    दशमभावस्थित चन्द्रफल -
    सुखं वान्धवेभ्यः खगे धर्मकर्मा समुद्राङ्गजेशं नरेशादितोऽपि ।
    नवीनाङ्गना वैभवे सुप्रियत्वं पुरा जातके सौख्यमल्पं करोति ॥ १०॥

    एकादशभावस्थित चन्द्रफल -
    लभद् भूमिपादिदुना लभगेन प्रतिष्ठाधिकाराम्बराणि क्रमेण ।
    श्रियोऽथस्त्रियोऽन्तःपुरे विश्रमन्ति क्रिया वैकृती कन्यका वस्तुलाभः ॥ ११॥

    द्वादशभावस्थित चन्द्रफल -
    शशी द्वादशे शत्रुनेत्रादिचिन्ता विचिन्त्या सदा सद्व्ययो मङ्गलेन ।
    पितृव्यादि मात्रादितोऽन्तविषादो न चाप्नोति कामं प्रियाल्पप्रियत्वम् ॥ १२॥



    अथ भौमस्य लग्नादि द्वादशभाव फलम्
    विलग्ने कुजे दण्डलोहाग्निभीतिस्तपेन् मानसं केसरी किं द्वितीयः ।
    कलत्रादिघतः शिरोनेत्रपीडा विपाकेफलानां सदैवोपसर्गः ॥ १॥

    भवेत्तस्य किं विद्यमाने कुतुम्बे धनेऽङ्गारके यस्य लब्धे धने किम् ।
    यथा त्रायते मर्कटः कण्ठहारं पुनः सम्भुखं को भवेद् वादभग्नः ॥ २॥

    कुतो बाहुवीर्यं कुतो बाहुलक्ष्मीस्तृतीयो न चेन् मङ्गलो मानवानाम् ।
    सहोत्थव्यथा भण्यते केन नेषां तपश्चर्ययाआ चोपहास्यः कथं स्यात् ॥ ३॥

    यदा भूसुतः सम्भवेत्तुर्यभावे तदा किं ग्रहाः सानुकूला जनानाम् ।
    सुहृद्वर्गसौख्यंनकिञ्चित् विचिन्त्यं कृपावस्त्रभूमीः लभेद्भूमिपालात् ॥ ४॥

    कुजे पञ्चम जाठराग्निर्वलीयान् न जातं न जान्त निहन्त्येक एव ।
    तदानीमनल्पा मतिः किल्विषेऽपि स्ययं दुग्धवत् तप्यतेऽन्तः सदैव ॥ ५॥

    न तिष्ठन्ति षष्ठेऽरयोऽङ्गारके वै तदङ्गैरिताः सङ्गरे शक्तिमन्तः ।
    मनीषी सुखी मातुलेयो न तद्वन् विलीयेत वित्तं लभेत्तापि भूरि ॥ ६॥

    अनुद्धारभूतेन पाणिग्रहेण प्रयाणेन वाणिज्य तो नो निवृत्तिः ।
    मुहुर्भगदः स्पर्धिनां मेदिनीजः प्रहारार्दनैः सप्तमे दम्पतिघ्नः ॥ ७॥

    शुभास्तस्य किं खेचराः कुर्युरन्ये विधानेऽपिचेदष्टमे भूमिसूनुः ।
    सखा किं न शत्रुयते सत्कृतोऽपि प्रयत्नेकृते भूयते चोपसर्गेः ॥ ८॥

    महोग्रा मतिर्भग्यवित्तं महोग्रं तपोभाग्यगो मङ्गलस्तत् करोति ।
    भवेन्नादियः श्यालकः सोदरो वा कुतो विक्रमस्तुच्छलाभे विपाके ॥ ९॥

    कुले तस्य किं मङ्गलं मङ्गलोनो जनैर्भूयते मध्यभावे यदि स्यात् ।
    स्वतः सिद्ध एवावतंसीयतेऽसौ वराकोऽपि कण्ठीरवः किं द्वितीयः ॥ १०॥

    कुजः पीडयेल्लाभगोऽपत्यशत्रुन् भवेत् संमुखो दुर्मुखोऽपिप्रतापात् ।
    धनं वर्धते गोधनैः वाहनैर्वा सकृच्छून्यतार्थे च पैशुन्यभावात् ॥ ११॥

    शताक्षोऽपि तत् सक्षतो लोहघानैः कुजो द्वादशोऽर्थस्य नाशं करोति ।
    मृपा किंवदन्ती भयं दस्युतो वा कलिः पारधी हेतु दुःखं विचिन्त्यम् ॥ १२॥



    अथ बुधस्य लग्नादि द्वादशभावफलम् -
    बुधो मूर्तिगो मार्जयेदन्यरिष्टंवरिष्टाधिया वैखरी वृत्तिभाजः ।
    जना दिव्यचामीकरीभूतदेहाश्चिकित्साविदो दुश्चिकित्स्या भवन्ति ॥ १॥

    धने बुद्धिमान् बोधने बाहुतेजाः सभासङ्गतो भासते व्यास एव ।
    पृथूदारता कल्पवृक्षस्य तद्वद् बुधैर्भण्यते भोगतः षट्पदोऽयम् ॥ २॥

    तृतीय भाव -
    वणिङ्मित्रता पण्यकृद्वृत्तिशीलो वशित्वं धियो दुर्वशानामुपैति ।
    विनीतोऽतिभोगं भजेत् संन्यसेद्धा तृतीयेऽनुजैराश्रितो ज्ञे लताबान् ॥ ३॥

    चतुर्थभाव
    चतुर्थे चरेत् चन्द्रजश्चारु मित्रो विशेषाधिकृद् भूमिनाथो गणस्य ।
    भवेल् लेखको लिख्यते वा तदुक्तं तदाशापरः पैतृकं नो धनं च ॥ ४॥

    पञ्चमभाव
    वयस्यादिमे पुत्रगर्भो न तिष्ठेत् भवेत् तस्य मेधाऽर्थसंवादयित्री ।
    बुधैर्भण्यते पञ्चमे रोहिणेये कियद् विद्यते कैतवस्याभिचारम् ॥ ५॥

    षष्ट्ःअभाव -
    विरोधो जनानां निरोधो रिपुणां प्रबोधो यतीनां च रोधोऽनिलानां ।
    बुधे सद्व्यये व्यावहारो निधीनां बलादर्थकृत् सम्भवेच्छत्रुभावे ॥ ६॥

    सप्तमभाव -
    सुतः शीतगोः सप्तमे शं युवत्या विधत्ते तथा तुच्छ वीर्यं च भोगे ।
    जतस्तं गतो हेमवद् देहशोभां न शक्रोति सत्सम्पदो वानुकर्तुम् ॥ ७॥

    अष्टमभाव -
    शतञ्जीविनो रन्ध्रगे राजपुत्रे भवन्तीह देशान्तरे विश्रुतस्ते ।
    निधानं नृपद् विक्रयाद् वा लभन्ते युवत्युद्भवं क्रीडनं प्रीतिमन्तः ॥ ८॥

    नवमभाव -
    बुधे धर्मगे धर्मशीलोऽतिधीमान् भवेद् दीक्षितः स्वर्धुनीस्नातकोवा ।
    कुलोद्योतकृद्भानुवद भूमिपालात् प्रतापाधिको वाधको दुर्मुखानाम् ॥ ९॥

    दशमभाव -
    मितं संवदेन्नो मितं मंलभेत् प्रमादादिवैकारि सौराजवृत्तिः ।
    बुधे कर्मगे पूजनोयो विशेपात् पितुः सम्पदो नीतिदण्डाधिकारात् ॥ १०॥

    एकादशभाव -
    विना लाभभावस्थितं भेशजातं न लाभो न लावण्यमानृण्यमस्ति ।
    कुतः कन्यकोद्वाहदानं च देयं कथं भूसुरास्त्यक्ततृष्णा भवन्ति ॥ ११॥

    द्वादशभाव -
    न चेद् द्वादशे यस्य शीतांशुजातः कथं तद्गृहं भूमिदेवा भजन्ति ।
    रणे वैरिणो भीतिभायान्ति कस्माद् हिरण्यादिकोशं शठः कोऽनुभूयात् ॥ १२॥



    अथ गुरोः लग्नादि द्वादशभावफलम् -
    गुरुत्वं गुणैर्लग्नगे देवपूज्ये सुवेशी शुखी दिव्यदेहोऽल्पवीर्यः ।
    गतिर्भाविनी पारलोकी विचिन्त्या वसूनि व्ययं सम्बलेन ब्रजन्ति ॥ १॥

    द्वितीयभावस्थ गुरुफलम्
    कवित्वेमतिः दण्डनेतृत्वशक्तिः मुखे दोषधृक् शीघ्रभोगार्त एव ।
    कुतुम्बे गुरौ कष्टतो द्रव्यलब्धिः सदा नो धनं विश्रमेद् यत्नतोऽपि ॥ २॥

    तृतीयभावस्थ गुरुफल -
    भवेद् यस्य दुश्चिक्यगो देवमन्त्री लघूनां लघीयान् सुखं सोदरा नाम् ।
    कृतघ्नो भवेत् मित्र सार्थे न मैत्रि ललाटोदयेऽप्यर्थलाभो न तद्वत् ॥ ३॥

    चतुर्थभावस्थ गुरुर्फल -
    गृहद्वारतः श्रियते वाजिह्वेषा द्विजोच्चारितो वेदघोषोऽपि तद्वत् ।
    प्रातिस्पर्द्धिनः कुर्वते पारिचार्य्यं चतुर्थे गुरौ सप्तमन्तर्गतञ्च ॥ ४॥

    पञ्चमभावगत गुरु का फल -
    विलासे मतिः बुद्धिगेदेवपूज्ये भवेज्जल्पकः कल्पको लेखको वा ।
    निदाने सुते विद्यमानेऽति भूतिः फलोपद्रवः पक्वकाले फलस्य ॥ ५॥

    षष्ठमस्थ गुरुफलम् -
    रुजार्तो जनन्या रुजः सम्भवेयू रिपौ वाक्पतौ शत्रुहन्तृत्वमेति ।
    वलादुद्धतः को रणे तस्य जेता महिष्यादिशर्मा न तन् मातुलानाम् ॥ ६॥

    सप्तमभावस्थ गुरुफलम् -
    मतिः तस्यबह्नी विभूतिश्चवह्नी रतिर्वैभवेद्भामिनीमवह्नीः ।
    गुरुर्वर्गकृद् यस्य जामित्रभावे सम्पिडाधिकोऽखण्ड कन्दर्प एव ॥ ७॥

    अष्टमभावस्थ गुरुर्फलम् -
    चिरं नो वसेत् पैतृके चैवगेहे चिरस्थायिनो तद्गृहं तस्य देहम् ।
    चिरं नो भवेत् तस्य नीरोगभङ्गं गुरुर्मृत्यगो तस्य वैकुण्ठगता ॥ ८॥

    नवमभावस्थितगुरुफलम् -
    चतुर्भूमिकं तद्गृहं तस्य भूमिपतेर्वल्लभोवल्लभा भूमिदेवाः ।
    गुरौ धर्मगे बान्धवाः स्युर्विनीताः सदालस्यतोधर्मवैगुण्यकारी ॥ ९॥

    दशमस्थगुरुफलम् -
    ध्वजामण्डपे मन्दिरे चित्रशाला पितुः पूर्वजेभ्योऽपि तेजोऽधिकत्वम् ।
    न तुष्टोभवेच्छमणा पुत्रकाणो पचेत् प्रत्यहं प्रस्थसामुद्रमन्नम् ॥ १०॥

    एकादशभावस्थगुरुफलम् -
    अकुप्यं च लाभे गुरौ किं न लभ्यं वदन्त्यष्टधीमन्त मन्ये मुनीन्द्राः ।
    पितुः भारभृतः स्वाङ्गजास्तस्य पञ्च परार्थस्तदर्थो न चेद् वैभवाय ॥ ११॥

    द्वादशस्थगुरुर्फलम् -
    यशः कीदृशं सद्व्यये साभिमाने मतिः कीदृशी वञ्चनाचेत् परेषाम् ।
    विधिः किदशोऽर्थस्त्य नाशो हि यने त्रयस्ते भवेयुः व्यये यस्य जीवः ॥ १२॥



    प्रथमभावस्थ शुक्रफल -
    समीचीनमङ्गं समीचीनमङ्गः ममीचीनवह्वङ्गना भोग युक्तः ।
    समीचीनकर्मा समीचीनशर्मा समीचीन शुक्रो यदालग्नवर्ती ॥ १॥

    द्वितीयभावगत शुक्रफल -
    मुखं चारुभापं मनीषापि चार्विं मुखं चारु चारूणि वासांसि तस्य ।
    कुटुम्बे स्थितः पूर्वदेवस्य पूज्यः कुटुम्बेन चारु चार्वगिकामः ॥ २॥

    तृतीयभाव गतशुक्र का फल -
    रतिः स्त्रीजने तस्य नो बन्धुनाशो गुरुर्यस्य दुशिक्यगो दानवानाम् ।
    न पूर्णो भवेत् पुत्रसौख्येऽपि सेनापतिः कातरो दानसङ्ग्रामकाले ॥ ३॥

    चतुर्थभाव का शुक्रफलः -
    महित्वेऽधिको यस्य तुर्येऽऽसुरेज्यो जनैः किं जनैश्चापरैरुष्ट तुष्टैः ।
    कियत् पोषयेत् जन्मतः सञ्जनन्या अधीनापि तोपायनैरेव पूर्णः ॥ ४॥

    पञ्चमभाव का शुक्रफल -
    सपुत्रेऽपि किं यस्य शुक्रो न पुत्रे प्रयासेन किं यत्नसम्पादितोऽर्थ ।
    व्युदर्कं विना मन्त्रमिष्टाशनाभ्यामधीतेन किं चेत् कवित्वेन शक्तिः ॥ ५॥

    षष्ठभावगत शुक्र का फल -
    सदा दानवेज्ये सुधासिक्त शत्रुः व्ययः शत्रुगे चौत्तमौ तौ भवेताम् ।
    विपद्येत सम्पादितं चापिकृत्यं तपेत् मन्त्रतः पूज्यसौख्यं न धत्ते ॥ ६॥

    सप्तमभावगत शुक्र का फल -
    कलत्रे कलत्रात् सुखं नोकलत्रात् कलत्रं तु शुक्रे भवेत् रत्नगर्भम् ।
    विलासाधिको गण्यते च प्रवासी प्रयासात्पकः के न मुह्यति तस्मात् ॥ ७॥

    अष्टमभावगत् शुक्र का फल -
    जनः क्षुद्रवादी चिरञ्चारु जीवेत् चतुष्पात् सुखं दैत्यपूज्यो ददाति ।
    जनुष्यष्टमे कष्टसाध्योजयार्थः पुनः वर्धते दीयमानं धनर्णम् ॥ ८॥

    नवमभावस्थित शुक्र का फल -
    भृगौत्रिकोणे पुरे के न पौराः कुमिदेन ये वृद्धिमस्मै ददीरन् ।
    गृहज्ञाय्ते तस्यधर्मध्वजादेः सहोत्थादि सौख्यं शरीरे सुखं च ॥ ९॥

    दशमभावगत शुक्र का फल -
    भृगुः कर्मगोगोत्रवीर्यं । गोत्रबीजं । रूणद्धि क्षयार्थोभ्रमः किन्न आत्मीय एव ।
    तुलामानतो हाटकं विप्रवृत्या जनाडम्बरैः प्रत्यहं वा विवादात् ॥ १०॥

    एकादशभावस्थित शुक्र के फल -
    भृगुः लाभगो यस्य लग्नात् सुरूपं महीपं च कुर्य्यच्च सम्यक् ।
    लसत् कीर्ति सत्यानुरागं गुणाढ्यं महाभोगमैश्वर्ययुक्तम् सुशीलम् ॥ ११॥

    व्ययस्थानगत शुक्र के फल -
    कदाप्येति वित्तं विलीयेत् पित्तं सितो द्वादशे केलिसत्कर्म शर्मा ।
    गुणानां च कीर्तेः क्षयं मित्रवैरं जनानां विरोधं सदोऽसौ करोति ॥ १२॥



    शनेः लग्नादिद्वादशभावफलम्
    शनि के प्रथमस्थान के फल -
    धनेनातिपूर्णोऽतितृष्णो विवादी तनुस्थेऽर्कजे स्थूलदृष्टिर्नरः स्यात् ।
    विपं दृष्टिजं स्वाधिकृत्व्याधिवाधाः स्वयं पीडितो मत्सरावेश एव ॥ १॥

    धनभावस्थ शनि के फल -
    सुखापेक्षया वर्जितोऽसौ कुटुम्बात् कुटुम्बे शनौ वस्तु कि किन भुक्ते ।
    समं वक्ति मित्रेण तिक्तं वचोऽपि प्रसक्ति विना लोहकं को लभेत् ॥ २॥

    तृतीयभावस्थ शनि के फल -
    तृतीये शनौ शीतलं नैव चित्ताञ्जना दुद्यभाज्जायते युक्तमापी ।
    अविघ्नं भवेत् कर्विचिन्नैवभाग्यं दृढाशः सुखी दुर्मुखः सत्कृतोऽपि ॥ ३॥

    चतुर्थभावस्थ शनि के फल -
    चतुर्थे शनौ पैकृतं याति दूरं धनं मन्दिरं बन्धुवर्गापवादः ।
    पितुश्चापि मातुश्च सन्तापकारी गृहे वाहने हानयो वातरोगी
    पऽम्च भावस्थ शनि के फल -
    शनौ पञ्चमे च प्रजा हेतु दुःखी विभूतिचला तस्यबुद्धिर्न शुद्धा ।
    रति दैवते शब्दशास्त्रे न तद्वत् कलिर्मित्रतो मन्त्रतः क्रोडपीडा ॥ ५॥

    षष्ठथान के शनि के फल -
    अरेर्भूपतेश्चौरतो भीतयः कि यदिनस्य पुत्रो भवेद् यस्य शत्रौ ।
    न युद्धे भवेत्संमुखे तस्य योद्धा महिष्यादिकं मातुलानां विनाशः ॥ ६॥

    सप्तमस्थान मे शनि के फल -
    सुदारा न मित्रं चिरं चारु वित्तं शनौ द्युनगे दम्पती रोगयुक्तौ ।
    अनुत्साहसन्तप्तकृद् हीनचेताः कुतोवीर्यवान् विह्वलो लोलुपः स्यात् ॥ ७॥

    अष्टमस्थान मे शनि के फल -
    वियोगो जनानां त्वनौपाधिकानां विनाशो धनानां स को यस्य न स्यान् ।
    शनौ रन्ध्रगे व्याधितः क्षुद्रदर्शी तदग्रे जनः कैतवं कि करोतु ॥ ८॥

    नवमस्थान में शनि के फल -
    मतिस्तस्यत्तिक्ता न तिक्तं सुशीलं रतिर्योगशास्त्रे गुनोराजसः स्यात् ।
    सुहृद्वर्गतो दुःखितो दीनबुद्ध्या शनिः धर्मगः कर्मकृत् संन्यसेद्धा ॥ ९॥

    दशमस्थान मे शनि के फल -
    अजातम्य मातापिता बाहुरेव वृथा मर्वतो दुष्ट कर्माधिपत्यात् ।
    शनैरेहने कर्मगः शर्म मन्दो जये विग्रहे जीविकानां तु यस्य ॥ १०॥

    लाभभावगत शनि के फल -
    स्थिरं वित्तमायुः स्थिरं मानमं च स्थिरा नैव रोगादयो न स्थिराणि ।
    अपत्यानि शूरः शतादेक एव प्रपञ्चाधिको लाभगे भानुपुत्रे ॥ ११॥

    व्ययस्थान मे शनि के फल -
    व्ययस्थे यदा सूर्यसूनौ नरः स्यादशूरोऽथवा निस्त्रयो मन्दनेत्रः ।
    प्रसन्नो वहिः नोगृहे लग्नपश्चेद् व्ययस्थोरिपुध्वंसकृद् यग़्यभोक्ता ॥ १२॥



    राहु के द्वादशभाव् फल -
    स्ववाक्ये समर्थः परेषां प्रतापात् प्रभावात् समाच्छादयेत् स्वान् परार्थान् ।
    तमोयस्य लग्ने स भग्नारिवीर्यः कलत्रेऽधृति भूरिदारोऽपि यायात् ॥ १॥

    धनभावगत राहु के फल -
    कुटुम्बे तमो नष्टभूतं कुटुम्बं मृषाभाषिता निर्भयो वित्तपालः ।
    स्ववर्गप्रणाशो भयंशस्त्रतः चेदवश्यं खलेभ्यो लभेत् पारवश्यम् ॥ २॥

    तृतीय भावस्थ राहु के फल -
    न नागोऽथ सिंहो भुजाविक्रमेण प्रयाती ह सिंही सुते तत्समत्वम् ।
    तृतीये जगत्सोदरत्वं समेति प्रयातोऽपि भाग्यं कुतो यत्न हेतुः ॥ ३॥

    चतुर्थभावगत राहु के फल -
    चतुर्थे तथं मातृनैरुर्ज्यदेहो हृदिज्वाल्या शीतलं किं वहिः स्यात् ।
    स चेज्ञथा मेषगः कर्कगो वा बुधर्क्षेऽसुरो भूपतेर्वन्धुरेव ॥ ४॥

    पञ्चभावगत्राहु के फल -
    सुते तत्सुतोत्त्पति कृत् सिंहिकायाः सुतोभामिनिचिन्तया चित्ततापः ।
    सति क्रोडरोगे किमाहारहेतुः प्रपञ्चन किं प्रापकन्दृष्टवर्ज्यम् ॥ ५॥

    षष्ठभावगत राहु के फल -
    वलं बुधिवीर्यं धनं तद्वशेन स्थितो वैरिभावेऽयेषां जनानाम् ।
    रिपूणामरण्यं दहेदेव राहुः स्थिरं मानसं तत्तुला नो पृथिव्याम् ॥ ६॥

    सप्तमभावगत राहु के फल -
    विनाशंलभेयुः द्युने तद्युवत्यो रुजा  धातुपाकादिना चन्द्रमर्दी ।
    कटाहे यथा लोडयेत् जातवेदा वियोगापवादाः शर्मं न प्रयान्ति ॥ ७॥

    अष्टम्भावगत राहु के फल -
    नृपैः पण्डितैः वन्दितोनिन्दितः सकृद्भाग्यलाभोऽसकृद् भ्रंश एव ।
    धनं जातकं तं जनाश्च त्यजन्ति श्रमग्रन्थि कृद्रन्ध्रगो व्रघ्नशत्रुः ॥ ८॥

    नवमभावगत राहु के फल -
    मनीषी कृतं न त्यजेत् बन्धुवर्गं सदा पालयेत् पूजितः याद्गुणैः स्वैः ।
    सभाद्योतको यस्य चेत् त्रित्रिकोणे तमः कौतुकी देवतीर्थे दयालुः ॥ ९॥

    दशमभावगत राहु के फल
    सदाम्लेच्छसंसगेतोऽतीवगर्वं लभेत् मानिनी कामिनी भोगमुच्चैः ।
    जनैर्व्याकुलोऽसौ सुखं नाधिशेते मदार्थव्ययी क्रूरकर्मा खगेऽगौ ॥ १०॥

    एकादशथानगत राहु के फल -
    सदा म्लेच्छतोऽर्थ लभेत् साभिमानः चरेत् किङ्करेण व्रजेत् किं विदेशम ।
    परार्थाननर्थी हरेद् धूर्तबन्धुः सुतोत्पत्तिसौख्यं तमो लाभगश्चेत् ॥ ११॥

    द्वादशभावगत राहु के फल -
    तमो द्वादशे दीनताम्पार्श्वशूलं प्रयत्ने कृतेऽनर्थतमातनोति ।
    खलैः मित्रतां साधुलोके रिपुत्वं विरामे मनोवाञ्छितार्थस्य सिद्धिम् ॥ १२॥



    केतु के द्वादशभावफल -
    प्रथम स्थानस्थ केतु फल -
    तनुस्थः शिखी बान्धवक्लेशकर्ता तथा दुर्जनेभ्यो भयं व्याकुलत्वम् ।
    कलत्रादिचिन्ता सदोद्वेगता च शरीरे व्यथा नैकधा मारुती स्यात् ॥ १॥

    द्वितीय भावस्थित केतु फल -
    धने केतुरव्यग्रता किं नरेशात् धनेधान्यनाशो मुखेरोगकृच्च ।
    कुटुम्वाद् विरोधो वचाह् सत्कृतं वा भवेत् स्वेगृहे सौम्यगेहेऽतिसौख्यम् ॥ २॥

    तृतीयस्थकेतु के फल -
    शिखी विक्रमे शत्रुनाशं विवादं धनं भोगमैश्वर्यतेजोऽधिकं च ।
    सुहृद्वर्गनाशं सदा बाहुपीडां भयोद्वेगचिन्ताऽकुलत्वं विधत्ते ॥ ३॥

    चतुर्थस्थानगत केतु के फल -
    चतुर्थे च मातुः सुखेनो कदाचित् सुहृद्वर्गतः पैतृकं नाशयेति ।
    शस्त्री बन्धुवर्गात् सुखं स्वोच्चगेहे चिरं नो वसेत् स्वेगृहे व्यग्रताचेत् ॥ ४॥

    पञ्चमस्थान के केतु का फल -
    यदा पञ्चमे राहपुच्छं प्रयाति तदा सोदरे घातवातादिकष्टम् ।
    स्वबुद्धिव्यथा सन्ततं स्वल्पपुत्रः स दासो भवेद् वीर्ययुक्तो नरोऽपि ॥ ५॥

    षष्ठभावगत केतु के फल -
    तमः षष्ठभागेगते षष्ठभावे भवेत् मातुलान् मनभङ्गो रिपूणाम् ।
    विनाशश्चतुष्पात् सुखं तुच्छवित्तं शरीरं सदानामयं व्याधिनाशः ॥ ६॥

    सप्तमस्थानगत केतु का फल -
    शिखी सप्तमे भूयसी मार्गचिन्ता निवृत्तः स्वनाशोऽथवा वारिभीतिः ।
    भवेत् कीटगः सर्वदालाभकारी कलत्रादिपीडा व्ययोव्यग्रता चेत् ॥ ७॥

    अष्टमभावगत केतु के फल -
    गुदा पीड्यतेऽर्शारोगैरवश्यं भयं वाहनादेः स्वद्रव्यस्यरोधः ।
    भवेदष्टमे राहुच्छेऽर्थलाभः सदा कीटकन्याऽजगो युग्मगे तु ॥ ८॥

    नवमभावगत केतु के फल -
    शिखी धर्मभावे यदाक्लेशनाशः सुतार्थी भवेत् म्लेच्छतोभाग्यवृद्धिः ।
    सहोत्थव्यथां बहुरोगं विधत्ते तपोदानतो हास्यवृद्धिं तदानीम् ॥ ९॥

    दशमभावगत केतु के फल -
    पितुर्नो सुखी कर्मगः यस्य केतुः दुर्भगं कष्टभाजे करोति ।
    तदा वाहने पीडितं जातु जन्म वृषाजालिकन्यासु चेत् शत्रुनाशम् ॥ १०॥

    लाभ भावगत केतु के फल -
    सुभाग्यः सुविद्याधिको दर्शनीयः सुगात्रः सुवस्त्रः सुतेजोऽपितस्य ।
    दरे पीड्यते सन्ततिः दुर्भगा च शिखी लाभगः सर्वलाभे करोति ॥ ११॥

    व्ययस्थानगत केतु के फल -
    शिखीरिःफगो वस्तिगुह्यान्ध्रिनेत्रे रुजापीडानं मातुलान्नैव शर्म ।
    सदा राजतुल्यं सद्व्ययं तद् रिपूणां विनाशं रणेऽसौ करोति ॥ १२॥

    No comments

    Post Top Ad

    Post Bottom Ad