Header Ads

  • Breaking News

    शुक्लयजुर्वेदीय मन्त्रपुष्पम् ।। Astro Classes, Silvassa.

    अथ शुक्लयजुर्वेदीय मन्त्रपुष्पम् ।। Astro Classes, Silvassa.

    ॐ यो॑ऽपां पुष्पं॒ वेद॑।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
    च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १॥

    अ॒ग्निर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
    यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।  आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २॥

    वा॒युर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
    यो वा॒योरा॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
    आपो॒ वै वा॒योरा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३॥

    अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्।  आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४॥

    च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
    यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
    आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५॥

    नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑।  आ॒यत॑नवान् भवति ।
    आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६॥

    प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
    आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७॥

    सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८॥

    No comments

    Post Top Ad

    Post Bottom Ad