Header Ads

  • Breaking News

    श्रीसिद्धिविनायकस्तोत्रम् ।। Shri SiddhiVinayaka Stotram.

    श्रीसिद्धिविनायकस्तोत्रम् ।। Shri SiddhiVinayaka Stotram.


    जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
    स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥

    प्रभुं मङ्गलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
    यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥

    विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
    त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥

    त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
    देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥

    कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
    विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥

    गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
    त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥

    त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
    अनाथनाथस्त्वं देहि विभो मे वाञ्छितं फलम् ॥ ७॥

    लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
    हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबान्धवः ॥ ८॥

    नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
    सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥

    विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
    दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥

    नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
    नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥

    नमनं शम्भुतनयं नमनं करुणालयम् ।
    नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥

    नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
    नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

    नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
    भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥

    अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
    दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥

    बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
    पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥

    दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
    शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥

    इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
    गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥

    पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
    कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥

    पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
    षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
    गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

         ।। इति श्री सिद्धिविनायक स्तोत्रम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad