Header Ads

  • Breaking News

    श्रीवेङ्कटेश्वर द्वादशमञ्जरिका स्तोत्रम् ।। Astro Classes.

    Shri Venkateshvara Dvadashamanjarika Stotram.
    श्रीवेङ्कटेश्वर द्वादशमञ्जरिका स्तोत्रम् ।। Astro Classes, Silvassa.

    अथ श्रीवेङ्कटेश्वर द्वादशमञ्जरिका स्तोत्रम् ।। BALAJI VED VIDYALAYA.
                 श्रीरस्तु ॥

    श्री कल्याण गुणोल्लासं चिद्विलासं महौजसम् ।
    शेषाद्रिमस्तकावासं श्रीनिवासं भजामहे ॥ १॥

    वाराहवेष भूलोकं लक्ष्मीमोहन विग्रहम् ।
    वेदान्त गोचरं देवं वेङ्कटेशं भजामहे ॥ २॥

    साङ्गाना मर्चिताकारं प्रसन्न मुखपङ्कजम् ।
    विश्वविश्वम्भराधीशं वृषाद्रीशं भजामहे ॥ ३॥

    कनत्कनक वेलाढ्यं करुणा वरुणालयम् ।
    श्री वासुदेव चिन्मूर्तिं शेषाद्रीशं भजामहे ॥ ४॥

    घनाघनं शेषाद्रि शिखरानन्द मन्दिरम् ।
    श्रिईतचातक संरक्षं सिंहाद्रीशं भजामहे ॥ ५॥

    मङ्गळत्रं पद्माक्षं कस्तूरी तिलकोज्ज्वलम् ।
    तुलस्यादि मनःपूज्यं तारागण विभूत्वमे ॥ ६॥

    स्वामिपुष्करिणी तीर्थ वासं व्यासाभिः वर्णितम् ।
    स्वाङ्घ्रीसूचित हस्ताब्जं सत्यरूपं भजामहे ॥ ७॥

    श्रीमन्नारायणं श्रीशं ब्रह्माण्डा वसन तत्परम् ।
    ब्रह्मण्यं सच्चिदानन्दं मोहातीतं भजामहे ॥ ८॥

    अञ्जनाद्रीश्वरं लोकरञ्जनं मुनिरञ्जनम् ।
    भक्तार्ति भञ्जनं भक्त पारिजातं तमाश्रये ॥ ९॥

    भिल्ली मनोहर्यं सत्य मनन्तं जगतां विभुम् ।
    नारायणाचलपतिं सत्यानन्दं तमाश्रये ॥ १०॥

    चतुर्मुखत्र्यम्बकाढ्यं सन्नुतार्य कदम्बकम् ।
    ब्रह्म प्रमुखनित्रानं प्रधान पुरुषाश्रये ॥ ११॥

    श्रीमत्पद्मासनाग्रस्थ चिन्तितार्थ प्रदायिकम् ।
    लोकैक नायकं श्रीमद् वेङ्कटाद्रीश माश्रये ॥ १२॥

    वेङ्कटाद्रि हरेः स्तोत्रं द्वादश श्लोक संयुतम् ।
    यःपठेः सततं भक्त्या तस्यमुक्तिः करे स्थिता ॥ १३॥

    सर्वपापहरं प्राहुः वेङ्कटेशस्तदोच्यतेः ।
    त्वन्नामको वेङ्कटाद्रिः स्मरतो वेङ्कटेश्वरः
    सद्यः संस्मरणादेव मोक्ष साम्राज्य माप्नुयात् ॥ १४॥

    वेङ्कटेश्वर पदद्वन्द्यं प्रजामिस्र स्मरणं सदा ।
    भूयाश्शरण्योमे साक्षाद्देवेशो भक्तवत्सलः ॥ १५॥

    ॥ श्री वेङ्कटेश्वर द्वादश मञ्जरिका स्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad